अथ दक्षिणामूर्तिद्वादशनामस्तोत्रं
प्रथमं दक्षिणामूर्तिर्द्वितीयं मुनिसेवितः।
ब्रह्मरूपी तृतीयं च चतुर्थं तु गुरूत्तमः।
पञ्चमं वटमूलस्थः षष्ठं वेदप्रियस्तथा।
सप्तमं तु महायोगी ह्यष्टमं त्रिजगद्गुरुः।
नवमं च विशुद्धात्मा दशमं कामितार्थदः।
एकादशं महातेजा द्वादशं मोक्षदायकः।
द्वादशैतानि नामानि सर्वलोकगुरोः कलौ।
यः पठेन्नित्यमाप्नोति नरो विद्यामनुत्तमां।
BhaktiGranth